Loading...
अथर्ववेद > काण्ड 6 > सूक्त 49

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 49/ मन्त्र 1
    सूक्त - गार्ग्य देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - अग्निस्तवन सूक्त

    न॒हि ते॑ अग्ने त॒न्वः॑ क्रू॒रमा॒नंश॒ मर्त्यः॑। क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ॥

    स्वर सहित पद पाठ

    न॒हि । ते॒ । अ॒ग्ने॒ । त॒न्व᳡: । क्रू॒रम् । आ॒नंश॑ । मर्त्य॑: । क॒पि: । ब॒भ॒स्ति॒ । तेज॑नम् । स्वम् । ज॒रायु॑ । गौ:ऽइ॑व ॥४९.१॥


    स्वर रहित मन्त्र

    नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः। कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥

    स्वर रहित पद पाठ

    नहि । ते । अग्ने । तन्व: । क्रूरम् । आनंश । मर्त्य: । कपि: । बभस्ति । तेजनम् । स्वम् । जरायु । गौ:ऽइव ॥४९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 49; मन्त्र » 1

    टिप्पणीः - १−(नहि) नैव (ते) तव (अग्ने) हे ज्ञानस्वरूप परमात्मन् (तन्वः) विस्तृतस्य स्वरूपस्य (क्रूरम्) अ० ५।१९।५। क्रूरभावम्। (आनंश) अश्नोतेर्लिट्। परस्मैपदं छान्दसम्। प्राप (मर्त्यः) अघ्न्यादयश्च। उ० ४।११२। इति मृङ् प्राणत्यागे−यक्, तुडागमः। मनुष्यः−निघ० २।३। (कपिः) कुण्ठिकम्प्योर्नलोपश्च। उ० ४।१४४। इति कपि चलने−इ। कम्पकः (बभस्ति) भस भर्त्सनदीप्त्योः, अदने च। बभस्तिरत्तिकर्मा−निरु० ५।—१२। भक्षयति (तेजनम्) अ० १।२।४। प्रकाशमयं सूर्यमण्डलम् (स्वम्) स्वकीयम् (जरायु) अ० १।११।४। गर्भवेष्टनम् (गौः) प्रसूता धेनुः ॥

    इस भाष्य को एडिट करें
    Top