Loading...
अथर्ववेद > काण्ड 6 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 2
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - जलचिकित्सा सूक्त

    जा॑ला॒षेणा॒भि षि॑ञ्चत जाला॒षेणोप॑ सिञ्चत। जा॑ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ॥

    स्वर सहित पद पाठ

    जा॒ला॒षेण॑ । अ॒भि । सि॒ञ्च॒त॒ । जा॒ला॒षेण॑ । उप॑ । सि॒ञ्च॒त॒ । जा॒ला॒षम् । उ॒ग्रम् । भे॒ष॒जम् । तेन॑ । न॒: । मृ॒ड॒ । जी॒वसे॑ ॥५७.२॥


    स्वर रहित मन्त्र

    जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत। जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥

    स्वर रहित पद पाठ

    जालाषेण । अभि । सिञ्चत । जालाषेण । उप । सिञ्चत । जालाषम् । उग्रम् । भेषजम् । तेन । न: । मृड । जीवसे ॥५७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 2

    टिप्पणीः - २−(जालाषेण) जायते जः। जैर्जातैर्लष्यते वाञ्छ्यते। ज+लष इच्छायाम्−घञ्। जलाषमुदकम्−निघ० १।१२। सुखनाम−निघ० ३।६। तस्येदम्। पा० ४।१।९२। इति, अण्। जलसम्बन्धिना वस्तुना (अभि) अभितः (सिञ्चत) व्रणं प्रक्षालयत, हे वैद्याः (जालाषेण) सुखकरेण द्रव्येण (उप) उपेत्य (सिञ्चत) शोधयत (जालाषम्) तस्य समूहः। पा० ४।२।३७। इति, अण्। सुखस्य समूहो वेदज्ञानम् (उग्रम्) तीक्ष्णम् (भेषजम्) भयनिवारकं वस्तु (तेन) जालाषेण (नः) अस्मान् (मृड) सुखय (जीवसे) जीवनार्थम् ॥

    इस भाष्य को एडिट करें
    Top