Loading...
अथर्ववेद > काण्ड 6 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 2
    सूक्त - अथर्वा देवता - सामंनस्यम्, नाना देवताः, त्रिणामा छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः। अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥

    स्वर सहित पद पाठ

    स॒म्ऽज्ञप॑नम् । व॒: । मन॑स: । अथो॒ इति॑ । स॒म्ऽज्ञप॑नम् । हृ॒द: । अथो॒ इति॑ । भग॑स्य । यत् । श्रा॒न्तम् । तेन॑ । सम्ऽज्ञ॑पयामि । व॒: ॥७४.२॥


    स्वर रहित मन्त्र

    संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः। अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥

    स्वर रहित पद पाठ

    सम्ऽज्ञपनम् । व: । मनस: । अथो इति । सम्ऽज्ञपनम् । हृद: । अथो इति । भगस्य । यत् । श्रान्तम् । तेन । सम्ऽज्ञपयामि । व: ॥७४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 2

    टिप्पणीः - २−(संज्ञपनम्) ज्ञा मारणतोषणनिशामनेषु ज्ञापने स्तुतौ च−णिचि, ल्युट्। विज्ञापनं प्रकाशनम् (वः) युष्माकम् (मनसः) मननस्य विचारस्य (अथो) अपि च (संज्ञपनम्) सन्तोषणम् (हृदः) हृदयस्य (अथो) (भगस्य) भगवतः परमेश्वरस्य (यत्) (श्रान्तम्) श्रमु तपसि खेदे च भावे−क्त। तपः। जितेन्द्रियत्वम् (तेन) कारणेन (संज्ञपयामि) संतोषयामि। स्तौमि (वः) युष्मान् ॥

    इस भाष्य को एडिट करें
    Top