Loading...
अथर्ववेद > काण्ड 6 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 3
    सूक्त - अथर्वा देवता - सामंनस्यम्, नाना देवताः, त्रिणामा छन्दः - त्रिष्टुप् सूक्तम् - सांमनस्य सूक्त

    यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥

    स्वर सहित पद पाठ

    यथा॑ । आ॒दि॒त्या: । वसु॑ऽभि: । स॒म्ऽब॒भू॒वु: । म॒रुत्ऽभि॑: । उ॒ग्रा: । अहृ॑णीयमाना: । ए॒व । त्रि॒ऽना॒म॒न् । अहृ॑णीयमान: । इ॒मान् । जना॑न् । सम्ऽम॑नस: । कृ॒धि॒ । इ॒ह ॥७४.३॥


    स्वर रहित मन्त्र

    यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः। एवा त्रिणामन्नहृणीयमान इमाञ्जनान्त्संमनसस्कृधीह ॥

    स्वर रहित पद पाठ

    यथा । आदित्या: । वसुऽभि: । सम्ऽबभूवु: । मरुत्ऽभि: । उग्रा: । अहृणीयमाना: । एव । त्रिऽनामन् । अहृणीयमान: । इमान् । जनान् । सम्ऽमनस: । कृधि । इह ॥७४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 3

    टिप्पणीः - ३−(यथा) येन प्रकारेण (आदित्याः) अ० १।९।१। आङ्+ दीपी दीप्तौ−यक्। यद्वा। अदिति−ण्य। प्रकाशमाना विद्वांसः। यद्वा। अदितेः अदीनाया देवमातुः पृथिव्या वेदवाण्या वा पुत्रवद्मानकर्तारः (वसुभिः) श्रेष्ठगुणैः (संबभूवुः) सम्+भू सामर्थ्ये। पराक्रमिणो बभूवुः (मरुद्भिः) अ० १।२०।१। शत्रुमारकैः शूरैः (उग्राः) तेजस्विनः (अहृणीयमानाः) अ० १।३५।४। हृणीङ् रोषणे लज्जायां च−शानच्। असंकुचन्तः (एव) एवम्। तथा (त्रिणामन्) हे त्रयाणां लोकानां कालानां वा नामयितो वशयितः परमेश्वर (अहृणीयमानः) अक्रुध्यस्त्वम् (इमान्) अस्मदीयान् (संमनसः) समानमनस्कान्। परस्परानुरक्तचित्तान् (कृधि) कुरु (इह) अस्मिन् ग्रामनगरादौ ॥

    इस भाष्य को एडिट करें
    Top