Loading...
अथर्ववेद > काण्ड 6 > सूक्त 75

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 1
    सूक्त - कबन्ध देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयण सूक्त

    निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑। नै॑र्बा॒ध्येन ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥

    स्वर सहित पद पाठ

    नि: । अ॒मुम् । नु॒दे॒ । ओक॑स: । स॒ऽपत्न॑: । य: । पृ॒त॒न्यति॑ । नै॒:ऽबा॒ध्ये᳡न । ह॒विषा॑ । इन्द्र॑: । ए॒न॒म् । परा॑ । अ॒श॒री॒त् ॥७५.१॥


    स्वर रहित मन्त्र

    निरमुं नुद ओकसः सपत्नो यः पृतन्यति। नैर्बाध्येन हविषेन्द्र एनं पराशरीत् ॥

    स्वर रहित पद पाठ

    नि: । अमुम् । नुदे । ओकस: । सऽपत्न: । य: । पृतन्यति । नै:ऽबाध्येन । हविषा । इन्द्र: । एनम् । परा । अशरीत् ॥७५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 1

    टिप्पणीः - १−(निर्नुदे) अहं निर्गमयामि (अमुम्) शत्रुम् (ओकसः) तस्य गृहात् (सपत्नः) शत्रुः (यः) (पृतन्यति) सुप आत्मनः क्यच्। पा० ३।१।८। इति पृतना−क्यच्। कव्यध्वरपृतनस्यर्चि लोपः। पा० ७।४।३९। इति इत्याकारलोपः। पृतनां सेनामात्मन इच्छति (नैर्बाध्येन) ऋहलोर्ण्यत् पा० ३।१।१२४। इति निर्+बाधृ लोडने−ण्यत्। प्रज्ञादिभ्यश्च पा० ५।४।३८। इति स्वार्थे अण्। निर्बाध्येन। अबाधनीयेन (हविषा) ग्राह्येण व्यवहारेण (इन्द्रः) प्रतापी राजा (एनम्) शत्रुम् (परा) दूरे (अशरीत्) शॄ हिंसायाम्−लुङ्। अशारीत्। पराङ्मुखं हतवान् ॥

    इस भाष्य को एडिट करें
    Top