Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 2
प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा। यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥
स्वर सहित पद पाठप॒र॒माम् । तम् । प॒रा॒ऽवत॑म् । इन्द्र॑: । नु॒द॒तु॒ । वृ॒त्र॒ऽहा । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: ॥७५.२॥
स्वर रहित मन्त्र
परमां तं परावतमिन्द्रो नुदतु वृत्रहा। यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥
स्वर रहित पद पाठपरमाम् । तम् । पराऽवतम् । इन्द्र: । नुदतु । वृत्रऽहा । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: ॥७५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(परमाम्) अतिशयिताम् (तम्) तर्द हिंसने ड। तर्दकं चोरम् (परावतम्) अ० ३।४।५। दूरगतां भूमिम्। (इन्द्रः) परमैश्वर्यवान् राजा (यतः) यस्या दूरभूमेः सकाशात् (न) निषेधे (पुनः) द्वितीयवारम् (आयति) आवर्तते (शश्वतीभ्यः) बहुभ्यः−निघ० ३।१। (समाभ्यः) संवत्सरेभ्यः ॥
इस भाष्य को एडिट करें