Loading...
अथर्ववेद > काण्ड 6 > सूक्त 87

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 87/ मन्त्र 1
    सूक्त - अथर्वा देवता - ध्रुवः छन्दः - अनुष्टुप् सूक्तम् - राज्ञः संवरण सूक्त

    आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

    स्वर सहित पद पाठ

    आ ।त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्त: । अ॒भू॒: । ध्रु॒व: । ति॒ष्ठ॒ । अवि॑ऽचाचलत् । विश॑: । त्वा॒ । सर्वा॑: । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥८७.१॥


    स्वर रहित मन्त्र

    आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्। विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥

    स्वर रहित पद पाठ

    आ ।त्वा । अहार्षम् । अन्त: । अभू: । ध्रुव: । तिष्ठ । अविऽचाचलत् । विश: । त्वा । सर्वा: । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥८७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 87; मन्त्र » 1

    टिप्पणीः - १−(आ) आनीय (त्वा) त्वां राजानम् (अहार्षम्) स्वीकृतवानस्मि (अन्तः) सभामध्ये (अभूः) विराजमानोऽभवः (ध्रुवः) स्रुवः क। उ० २।६१। इति ध्रु स्थैर्य्ये−क। निश्चितबुद्धिः (तिष्ठ) स्थिरो भव (अविचाचलत्) चल गतौ−यङ्लुगन्तात्, शतृ। नाभ्यस्ताच्छतुः। पा–० ७।१।७८। इति नुम्प्रतिषेधः। निश्चलस्वभावः (विशः) प्रजाः। मनुष्याः−निघ० २।३। (सर्वाः) अखिलाः (त्वा) (वाञ्छन्तु) वाछि इच्छायाम्। कामयन्तु (त्वत्) त्वत्तः (राष्ट्रम्) राज्यम् (अधि) अधिकम्। कदापि (मा भ्रशत्) भ्रशु अधःपतने माङि लुङि पुषादित्वात् च्लेरङादेशः। मा नष्टं स्यात् ॥

    इस भाष्य को एडिट करें
    Top