Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 87/ मन्त्र 3
सूक्त - अथर्वा
देवता - ध्रुवः
छन्दः - अनुष्टुप्
सूक्तम् - राज्ञः संवरण सूक्त
इन्द्र॑ ए॒तम॑दीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥
स्वर सहित पद पाठइन्द्र॑: । ए॒तम् । अ॒दी॒ध॒र॒त्। ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । तस्मै॑ । सोम॑: । अधि॑ । ब्र॒व॒त् । अ॒यम् । च॒ । ब्रह्म॑ण: । पति॑: ॥८७.३॥
स्वर रहित मन्त्र
इन्द्र एतमदीधरद् ध्रुवं ध्रुवेण हविषा। तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥
स्वर रहित पद पाठइन्द्र: । एतम् । अदीधरत्। ध्रुवम् । ध्रुवेण । हविषा । तस्मै । सोम: । अधि । ब्रवत् । अयम् । च । ब्रह्मण: । पति: ॥८७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 87; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(इन्द्रः) परमेश्वरः (एतम्) राजानम् (अदीधरत्) धारयतेर्लुङि चङि रूपम्। धारितवान्। स्थापितवान् (ध्रुवम्) स्थिरम् (ध्रुवेण) दृढेन (हविषा) दातव्यग्राह्यशुभकर्मणा (तस्मै) राज्ञे (सोमः) सर्वोत्पादकः (अधि) अधिकमधिकम् (ब्रवत्) ब्रूयात्। उपदिशेत् (च) (ब्रह्मणस्पतिः) ब्रह्माण्डस्य वेदस्य च पालकः परमेश्वरः ॥
इस भाष्य को एडिट करें