Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 1
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्। ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
स्वर सहित पद पाठध्रु॒वा । द्यौ: । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वास॒: । पर्व॑ता: । इ॒मे। ध्रु॒व: । राजा॑ । वि॒शाम् । अ॒यम् ॥८८.१॥
स्वर रहित मन्त्र
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्। ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥
स्वर रहित पद पाठध्रुवा । द्यौ: । ध्रुवा । पृथिवी । ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवास: । पर्वता: । इमे। ध्रुव: । राजा । विशाम् । अयम् ॥८८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ध्रुवा) स्थिरा (द्यौः) अहर्नाम−निघ० १।२। द्यावो द्योतनात्−निरु० २।२०। प्रकाशमानः सूर्यलोकः (ध्रुवा) (पृथिवी) (ध्रुवम्) दृढम् (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (ध्रुवासः) ध्रुवाः स्थिराः (पर्वताः) शैलाः (इमे) पुरोवर्तमानाः (ध्रुवः) निश्चलः। धार्मिकः (राजा) शासकः (विशाम्) प्रजानाम् (अयम्) पुरोवर्त्ती शूरः ॥
इस भाष्य को एडिट करें