Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 2
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
स्वर सहित पद पाठध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥
स्वर रहित मन्त्र
ध्रुवं ते राजा वरुणो ध्रुवम्देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
स्वर रहित पद पाठध्रुवम् । ते । राजा । वरुण: । ध्रुवम् । देव: । बृहस्पति: । ध्रुवम् । ते । इन्द्र: । च । अग्नि: । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥८८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ध्रुवम्) स्थिरम्। दृढम् (ते) तुभ्यम् (राजा) सर्वेश्वरः (वरुणः) सेवनीयः परमेश्वरः (देवः) प्रकाशमानः (बृहस्पतिः) बृहतां लोकानां पालकः (ते) तव (इन्द्रः) परमैश्वर्यवान् परमेश्वरः (च) (अग्निः) सर्वव्यापक ईश्वरः (च) (राष्ट्रम्) राज्यम् (धारयताम्) धारयतु। रक्षतु ॥
इस भाष्य को एडिट करें