Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 91/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - यक्षमनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्षमनाशन सूक्त
इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः। तेना॑ ते त॒न्वो॒ रपो॑ऽपा॒चीन॒मप॑ व्यये ॥
स्वर सहित पद पाठइ॒मम् । यव॑म् । अ॒ष्टा॒ऽयो॒गै: । ष॒ट्ऽयो॒गेभि॑: । अ॒च॒र्कृ॒षु॒: । तेन॑ । ते॒ । त॒न्व᳡: । रप॑:। अ॒पा॒चीन॑म् । अप॑ । व्य॒ये॒ ॥९१.१॥
स्वर रहित मन्त्र
इमं यवमष्टायोगैः षड्योगेभिरचर्कृषुः। तेना ते तन्वो रपोऽपाचीनमप व्यये ॥
स्वर रहित पद पाठइमम् । यवम् । अष्टाऽयोगै: । षट्ऽयोगेभि: । अचर्कृषु: । तेन । ते । तन्व: । रप:। अपाचीनम् । अप । व्यये ॥९१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 91; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इमम्) दृश्यमानं सर्वव्यापिनम् (यवम्) यु मिश्रणामिश्रणयोः−अप्। यवः, मिश्रणामिश्रणकर्ता इति दयानन्दभाष्ये यजुः० ५।२६। संयोजकवियोजकं परमात्मानम् (अष्टायोगैः) यमनियमाद्यष्टयोगाङ्गैः−योगदर्शने २।२९। (षड्योगेभिः) अध्यापनाध्ययनादिब्राह्मणषट्कर्मभिः−मनुस्मृति १।८८। (अचर्कृषुः) कृष विलेखने स्वार्थे ण्यन्ताल्लुङि चङि रूपम्। कर्षणेन श्रमेण प्राप्तवन्तः (तेन) कर्षणकर्मणा (ते) तव (तन्वः) शरीरस्य (रपः) अ० ४।१३।२। दोषम् (अपाचीनम्) विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। इति अपाच्−स्वार्थे ख, खस्य ईनादेशः। अपगतम्। अपाङ्मुखम् (अप व्यये) व्यय गतौ विषसमुत्सर्गे च। अपगमयामि ॥
इस भाष्य को एडिट करें