Loading...
अथर्ववेद > काण्ड 6 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 91/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - आपः छन्दः - अनुष्टुप् सूक्तम् - यक्षमनाशन सूक्त

    आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥

    स्वर सहित पद पाठ

    आप॑: । इत् । वै । ऊं॒ इति॑। भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥९१.३॥


    स्वर रहित मन्त्र

    आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥

    स्वर रहित पद पाठ

    आप: । इत् । वै । ऊं इति। भेषजी: । आप: । अमीवऽचातनी: । आप: । विश्वस्य । भेषजी: । ता: । ते । कृण्वन्तु । भेषजम् ॥९१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 91; मन्त्र » 3

    टिप्पणीः - ३−(आपः) आप्नोतेर्ह्रस्वश्च उ० २।५८। इति आप्लृ व्याप्तौ−क्विप् अप्तृन्तृच्०। पा० ६।४।११। इत्युपधादीर्घः। अपः कर्मनाम−निघ० २।१। आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि−इति महीधरभाष्ये यजु० ४०।४। वेदविहितकर्माणि (इद् वा उ) इति सर्वेऽवधारणे (भेषजीः) अ० ३।७।५। भेषज्यः। भयनिवारकाः (अमीवचातनीः−रोगाणां नाशयित्र्यः (विश्वस्य) सर्वस्य (ताः) आपः (ते) तव (कृण्वन्तु) कुर्वन्तु (भेषजम्) रोगनिवर्तनम् ॥

    इस भाष्य को एडिट करें
    Top