Loading...
अथर्ववेद > काण्ड 6 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 91/ मन्त्र 2
    सूक्त - भृग्वङ्गिरा देवता - यक्षमनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्षमनाशन सूक्त

    न्यग्वातो॑ वाति॒ न्यक्तपति॒ सूर्यः॑। नी॒चीन॑म॒घ्न्या दु॑हे॒ न्यग्भवतु ते॒ रपः॑ ॥

    स्वर सहित पद पाठ

    न्य᳡क् । वात॑: । वा॒ति॒ । न्य᳡क् । त॒प॒ति॒ । सूर्य॑: । नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य᳡क् । भ॒व॒तु॒ । ते॒ । रप॑: ॥९१.२॥


    स्वर रहित मन्त्र

    न्यग्वातो वाति न्यक्तपति सूर्यः। नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥

    स्वर रहित पद पाठ

    न्यक् । वात: । वाति । न्यक् । तपति । सूर्य: । नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रप: ॥९१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 91; मन्त्र » 2

    टिप्पणीः - २−(न्यक्) नि+अञ्चु गतिपूजनयोः−क्विन्। निम्नम् (वातः) वायुः (वाति) गच्छति (न्यक्) (तपति) उपतापयति (सूर्यः) सरणशील आदित्यः (नीचीनम्) विभाषाञ्चेर०। पा० ५।४।८। इति न्यच्−स्वार्थे ख, खस्य ईनादेशः (अघ्न्या) अहन्तव्या गौः−निघ० २।११। (दुहे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। दुग्धे दुग्धं ददाति (न्यक्) अधोमुखम् (भवतु) (ते) तव (रपः) पापम् ॥

    इस भाष्य को एडिट करें
    Top