Loading...
अथर्ववेद > काण्ड 6 > सूक्त 92

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 1
    सूक्त - अथर्वा देवता - वाजी छन्दः - जगती सूक्तम् - वाजी सूक्त

    वात॑रंहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा प॒त्सु ज॒वं द॑धातु ॥

    स्वर सहित पद पाठ

    वात॑ऽरंहा: । भ॒व॒ । वा॒जि॒न् । यु॒ज्यमा॑न: । इन्द्र॑स्य । या॒हि॒ । प्र॒ऽस॒वे । मन॑:ऽजवा: । यु॒ञ्जन्तु॑ । त्वा॒ । म॒रुत॑: । वि॒श्वऽवे॑दस: । आ । ते॒ । त्वष्टा॑ । प॒त्ऽसु । ज॒वम् । द॒धा॒तु॒ ॥९२.१॥


    स्वर रहित मन्त्र

    वातरंहा भव वाजिन्युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः। युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वष्टा पत्सु जवं दधातु ॥

    स्वर रहित पद पाठ

    वातऽरंहा: । भव । वाजिन् । युज्यमान: । इन्द्रस्य । याहि । प्रऽसवे । मन:ऽजवा: । युञ्जन्तु । त्वा । मरुत: । विश्वऽवेदस: । आ । ते । त्वष्टा । पत्ऽसु । जवम् । दधातु ॥९२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 1

    टिप्पणीः - १−(वातरंहाः) रमेश्च। उ० ४।२१४। इति रमु क्रीडायाम्−असुन् हुक् च। रंहो वेगः। वायुवद्वेगयुक्तो (भव) (वाजिन्) वाज−इनि। वाजोऽन्नम्−निघ० २।७। बलम्−२।९। अन्नवन्। बलवन् राजन् (युज्यमानः) समाहितः सन् (इन्द्रस्य) परमैश्वर्यवतो जगदीश्वरस्य (याहि) गच्छ (प्रसवे) षू प्रेरणे−अप्। अनुज्ञायाम् (मनोजवाः) जु रंहसि−असुन्। मनोवद्वेगवान्−(युञ्जन्तु) राजकार्ये संयोजयन्तु (त्वा) त्वाम् (मरुतः) अ० १।२०।१। दोषनाशकाः। विद्वांसः। ऋत्विजः−निघ० ३।१८। (विश्ववेदसः) विद−असुन् सर्वज्ञाः। सर्वधनाः (आ) समन्तात् (ते) तव (त्वष्टा) अ० २।५।६। सूक्ष्मदर्शी मनुष्यः (पत्सु) पादेषु (जवम्) वेगम् (दधातु) स्थापयतु ॥

    इस भाष्य को एडिट करें
    Top