Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 93/ मन्त्र 2
सूक्त - शन्ताति
देवता - भवः, शर्वः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वस्त्ययन सूक्त
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑। न॑म॒स्येभ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
स्वर सहित पद पाठमन॑सा । होमै॑: । हर॑सा । घृ॒तेन॑ । श॒र्वाय॑ । अस्त्रे॑ । उ॒त ।राज्ञे॑ । भ॒वाय॑ । न॒म॒स्ये᳡भ्य: । नम॑: । ए॒भ्य॒: । कृ॒णो॒मि॒ । अ॒न्यत्र॑ । अ॒स्मत् । अ॒घऽवि॑षा: । न॒य॒न्तु॒ ॥९३.२॥
स्वर रहित मन्त्र
मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय। नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥
स्वर रहित पद पाठमनसा । होमै: । हरसा । घृतेन । शर्वाय । अस्त्रे । उत ।राज्ञे । भवाय । नमस्येभ्य: । नम: । एभ्य: । कृणोमि । अन्यत्र । अस्मत् । अघऽविषा: । नयन्तु ॥९३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 93; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(मनसा) मन ज्ञाने−असुन्। विज्ञानेन सह (होमैः) अ० ४।३८।५। हु दानादानयोः−मन्। दातव्यग्राह्यव्यवहारैः (हरसा) अन्धकारेण हारकेण (घृतेन) घृ भासे−क्त। प्रकाशेन (शर्वाय) अ० ४।२८।१। कष्टनाशकाय (अस्त्रे) म० १। ग्रहीत्रे (उत) अपि च (राज्ञे) शासकाय (भवाय) अ० ४।२८।१। सुखोत्पादकाय परमेश्वराय (नमस्येभ्यः) नमस्कारार्हेभ्यो विद्वद्भ्यः (नमः) विनतिम् (एभ्यः) (कृणोमि) करोमि (अन्यत्र) अन्येषु दुष्कर्मिषु (अस्मत्) धार्मिकेभ्यः (अघविषाः) अघं पापमेव विषं विषवन्मृत्युकरं यासु ताः पीडाः (नयन्तु) प्रापयन्तु ॥
इस भाष्य को एडिट करें