Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 93/ मन्त्र 3
सूक्त - शन्ताति
देवता - विश्वे देवाः, मरुद्गणः, अग्नीसोमौ, वरुणः, वातपर्जन्यः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वस्त्ययन सूक्त
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः। अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठत्राय॑ध्वम् । न॒: । अ॒घऽवि॑षाभ्य: । व॒धात् । विश्वे॑ । दे॒वा॒: । म॒रु॒त॒: । वि॒श्व॒ऽवे॒द॒स॒: । अ॒ग्नीषोमा॑ । वरु॑ण: । पू॒तऽद॑क्षा: । वा॒ता॒प॒र्ज॒न्ययो॑: । सु॒ऽम॒तौ । स्या॒म॒ ॥९३.३॥
स्वर रहित मन्त्र
त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः। अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥
स्वर रहित पद पाठत्रायध्वम् । न: । अघऽविषाभ्य: । वधात् । विश्वे । देवा: । मरुत: । विश्वऽवेदस: । अग्नीषोमा । वरुण: । पूतऽदक्षा: । वातापर्जन्ययो: । सुऽमतौ । स्याम ॥९३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 93; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्रायध्वम्) पालयत (नः) अस्मान् धार्मिकान् (अघविषाभ्यः) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति षष्ठ्याः पञ्चमी। पापरूपविषयुक्तानां पीडानाम् (वधात्) हननात् (विश्वे) सर्वे (देवाः) दिव्यगुणयुक्ताः (मरुतः) अ० १।२०।१। हे दोषनाशका विद्वांसः (विश्ववेदसः) विश्वस्य जगतो वेत्तारः (अग्नीषोमा) अ० १।८।२। अग्निश्च चन्द्रश्च तौ (वरुणः) वरणीयः सूर्यः (पूतदक्षाः) दक्ष वृद्धौ गतौ च−अच्। दक्षो बलम्−निघ० २।९। पवित्रबलाः (वातापर्जन्ययोः) देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्यानङ्। वायुमेघयोः (सुमतौ) श्रेष्ठायां बुद्धौ (स्याम) ॥
इस भाष्य को एडिट करें