Loading...
अथर्ववेद > काण्ड 6 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 2
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः सूक्तम् - विजयी राजा

    त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒ज: । श्र॒व॒स्यु: । त्वम् । भू॒: । अ॒भिऽभू॑ति: । जना॑नाम् । त्वम् । दैवी॑: । विश॑: । इ॒मा: । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥


    स्वर रहित मन्त्र

    त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 2

    टिप्पणीः - २−(त्वम्) (इन्द्र) परमैश्वर्यवान् भगवान् (अधिराजः) म० १। राज्ञामधिको राजा (श्रवस्युः) श्रु−असुन्। श्रवः श्रवणम्। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति क्यङ्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। श्रव इवाचरतीति। सर्वस्य श्रोता (भूः) लुङि अडभावः। अभूः (अभिभूतिः) अभितः सर्वतो भूतिरैश्वर्यं यस्मात्सः। सर्वैश्वर्यदाता। यद्वा, अभिभविता तिरस्कर्ता (जनानाम्) भक्तानां पामरजनानां वा (दैवीः) दिव्यगुणसम्पन्नाः (विशः) प्रजाः (इमाः) दृश्यमानाः (वि) विविधम् (राज) राजय। शाधि (आयुष्मत्) उत्तमजीवनयुक्तम् (क्षत्रम्) राज्यम् (अजरम्) जरारहितम्। नित्यतरुणम् (ते) तव (अस्तु) भवतु ॥

    इस भाष्य को एडिट करें
    Top