Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 100/ मन्त्र 1
सूक्त - यमः
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःस्वप्न नाशन
प॒र्याव॑र्ते दुः॒ष्वप्न्या॑त्पा॒पात्स्वप्न्या॒दभू॑त्याः। ब्रह्मा॒हमन्त॑रं कृण्वे॒ परा॒ स्वप्न॑मुखाः॒ शुचः॑ ॥
स्वर सहित पद पाठप॒रि॒ऽआव॑र्ते । दु॒:ऽस्वप्न्या॑त् । पा॒पात् । स्वप्न्या॑त् । अभू॑त्या: । ब्रह्म॑ । अ॒हम् । अन्त॑रम् । कृ॒ण्वे॒ । परा॒ । स्वप्न॑ऽमुखा: । शुच॑: ॥१०५.१॥
स्वर रहित मन्त्र
पर्यावर्ते दुःष्वप्न्यात्पापात्स्वप्न्यादभूत्याः। ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥
स्वर रहित पद पाठपरिऽआवर्ते । दु:ऽस्वप्न्यात् । पापात् । स्वप्न्यात् । अभूत्या: । ब्रह्म । अहम् । अन्तरम् । कृण्वे । परा । स्वप्नऽमुखा: । शुच: ॥१०५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 100; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पर्यावर्ते) पृथग् भवामि (दुःष्वप्न्यात्) अ० ४।९।६। दुर् दुष्टेषु स्वप्नेषु भवात् (पापात्) अ० २।१२।५। पालकात् (स्वप्न्यात्) स्वप्नप्रभवात् (अभूत्याः) अनैश्वर्यत्वात्। निर्धनत्वात् (ब्रह्म) ईश्वरम् (अहम्) मनुष्यः (अन्तरम्) मध्ये। आत्मनि (कृण्वे) करोमि (परा) दूरे (स्वप्नमुखाः) स्वप्नप्रधानाः (शुचः) शोकान् ॥
इस भाष्य को एडिट करें