Loading...
अथर्ववेद > काण्ड 7 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 2
    सूक्त - बादरायणिः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रभृत सूक्त

    घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑। य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥

    स्वर सहित पद पाठ

    घृ॒तम् । अ॒प्स॒राभ्य॑: । व॒ह॒ । त्वम् । अ॒ग्ने॒ । पां॒सून् । अ॒क्षेभ्य॑: । सिक॑ता: । अ॒प: । च॒ । य॒था॒ऽभा॒गम् । ह॒व्यऽदा॑तिम् । जु॒षा॒णा: । मद॑न्ति । दे॒वा: । उ॒भया॑नि । ह॒व्या ॥११४.२॥


    स्वर रहित मन्त्र

    घृतमप्सराभ्यो वह त्वमग्ने पांसूनक्षेभ्यः सिकता अपश्च। यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥

    स्वर रहित पद पाठ

    घृतम् । अप्सराभ्य: । वह । त्वम् । अग्ने । पांसून् । अक्षेभ्य: । सिकता: । अप: । च । यथाऽभागम् । हव्यऽदातिम् । जुषाणा: । मदन्ति । देवा: । उभयानि । हव्या ॥११४.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 2

    टिप्पणीः - २−(घृतम्) सारपदार्थम् (अप्सराभ्यः) अ० २।२।३। अप्सु प्रजासु सरणशीलाभ्यो व्यापिकाभ्यः शक्तिभ्यः (वह) द्विकर्मकः। प्रापय (त्वम्) (अग्ने) विद्वन् पुरुष (पांसून्) अर्जिदृशिकम्यमिपंसि०। उ० १।२७। इति पसि नाशने-कु, दीर्घश्च। पांसवः पादैः सूयन्त इति वा, पन्ना शेरत इति वा पंसनीया भवन्तीति वा-निरु० १२।१९। धूलिकणान्। भूमिस्थलानीत्यर्थः (अक्षेभ्यः) अ० ६।७०।१। व्यवहारान् साधितुम् (सिकताः) पृषिरञ्जिभ्यां कित्। उ० ३।१११। सिक सेचने-अतच्, स च कित्। सेचनसमर्थाः (अपः) जलानि (च) (यथाभागम्) भागमनतिक्रम्य (हव्यदातिम्) हव्यानां ग्राह्यपदार्थानां दानम् (जुषाणाः) सेवमानाः (मदन्ति) आनन्दयन्ति (देवाः) विद्वांसः (उभयानि) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति उभ पूरणे-कयन्। पूर्णानि (हव्या) ग्राह्यवस्तूनि ॥

    इस भाष्य को एडिट करें
    Top