अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 5
सूक्त - बादरायणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रभृत सूक्त
यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च। स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥
स्वर सहित पद पाठय: । न॒: । द्यु॒वे । धन॑म् । इ॒दम् । च॒कार॑ । य: । अ॒क्षाणा॑म् । ग्लह॑नम् । शेष॑णम् । च॒ । स: । न॒: । दे॒व: । ह॒वि: । इ॒दम्। जु॒षा॒ण: । ग॒न्ध॒र्वेभि॑: । स॒ध॒ऽमाद॑म् । म॒दे॒म॒ ॥११४.५॥
स्वर रहित मन्त्र
यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च। स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥
स्वर रहित पद पाठय: । न: । द्युवे । धनम् । इदम् । चकार । य: । अक्षाणाम् । ग्लहनम् । शेषणम् । च । स: । न: । देव: । हवि: । इदम्। जुषाण: । गन्धर्वेभि: । सधऽमादम् । मदेम ॥११४.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यः) परमेश्वरः (नः) अस्मदीयाय (द्युवे) दिवु मोदे-क्विप्। आनन्दाय (धनम्) (इदम्) (चकार) कृतवान् (यः) (अक्षाणाम्) अ० ६।७०।१। व्यवहाराणाम् (ग्लहनम्) रस्य लः। ग्रहणम् (शेषणम्) शिष्लृ विशेषणे-ल्युट्। विशेषणम्। गुणप्रकाशनं यथा ब्राह्मणत्वं क्षत्रियत्वं वैश्यत्वं शूद्रत्वं च (च) (सः) (नः) अस्माकं (देवः) व्यवहारकुशलः परमेश्वरः (हविः) दानम्। आत्मसमर्पणम् (इदम्) वक्ष्यमाणम् (जुषाणः) सेवमानः। भवतु इति शेषः (गन्धर्वेभिः) अ० २।१।२। गोर्विद्यायाः पृथिव्या वा धारकैः पुरुषैः (सधमादम्) परस्परानन्दम् (मदेम) हृष्येम ॥
इस भाष्य को एडिट करें