अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 1
सूक्त - बादरायणिः
देवता - अग्निः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - राष्ट्रभृत सूक्त
इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी। घृ॒तेन॒ कलिं॑ शिक्षामि॒ स नो॑ मृडाती॒दृशे॑ ॥
स्वर सहित पद पाठइ॒दम् । उ॒ग्राय॑ । ब॒भ्रवे॑ । नम॑: । य: । अ॒क्षेषु॑ । त॒नू॒ऽव॒शी । घृ॒तेन॑ । कलि॑म् । शि॒क्षा॒मि॒ । स: । न॒: । मृ॒डा॒ति॒ । ई॒दृशे॑ ॥११४.१॥
स्वर रहित मन्त्र
इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी। घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥
स्वर रहित पद पाठइदम् । उग्राय । बभ्रवे । नम: । य: । अक्षेषु । तनूऽवशी । घृतेन । कलिम् । शिक्षामि । स: । न: । मृडाति । ईदृशे ॥११४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इदम्) (उग्राय) तेजस्विने (बभ्रवे) अ० ४।२९।२। पोषकाय (नमः) नमस्कारः (यः) परमेश्वरः (अक्षेषु) अ० ४।३८।४। व्यवहारेषु (तनूवशी) अ० १।७।२। शरीराणां वशयिता (घृतेन) प्रकाशेन (कलिम्) सर्वधातुभ्य इन्। उ० ४।११८। कल शब्दसंख्यानयोः-इन्। गणकम्। गणपतिं परमेश्वरम् (शिक्षामि) शिक्ष विद्योपादाने-लट्, परस्मैपदं छान्दसम्। शिक्षे। अभ्यस्यामि (सः) कलिः (नः) अस्मान् (मृडाति) सुखयेत् (ईदृशे) एवं प्रकारे पुण्यकर्मणि ॥
इस भाष्य को एडिट करें