Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 117/ मन्त्र 1
सूक्त - अथर्वाङ्गिराः
देवता - इन्द्रः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः। मा त्वा॒ के चि॒द्वि य॑म॒न्विं न पा॒शिनो॑ऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
स्वर सहित पद पाठआ । म॒न्द्रै: । इ॒न्द्र॒ । हरि॑ऽभि: । या॒हि । म॒यूर॑रोमऽभि: । मा । त्वा॒ । के । चि॒त् । वि । य॒म॒न् । विम् । न । पा॒शिन॑: । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥१२२.१॥
स्वर रहित मन्त्र
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। मा त्वा के चिद्वि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥
स्वर रहित पद पाठआ । मन्द्रै: । इन्द्र । हरिऽभि: । याहि । मयूररोमऽभि: । मा । त्वा । के । चित् । वि । यमन् । विम् । न । पाशिन: । अति । धन्वऽइव । तान् । इहि ॥१२२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 117; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आ याहि) आगच्छ (मन्द्रैः) स्फायितञ्चिवञ्चि०। उ० २।१३। मदि स्तुतौ-रक्। गम्भीरध्वनिभिर्वर्तमानैः (इन्द्र) प्रतापिन् राजन् (हरिभिः) मनुष्यैरश्वैश्च (मयूररोमभिः) मीनातेरूरन्। उ० १।६७। मीञ् हिंसायाम्-ऊरन्। नामन्सीमन्व्योमन्रोमन्०। उ० ४।१५१। रु शब्दे-मनिन्। मयूररोमसदृशरोमाणि कवचवस्त्राणि येषां तैः (मा) निषेधे (त्वा) त्वां राजानम् (केचित्) केऽपि शत्रवः (वि) विविधम् (यमन्) यमु उपरमे लेड्यडागमः। नियच्छन्तु। प्रतिबध्नन्तु (विम्) वातेर्डिच्च। उ० ४।१३४। वा गतिगन्धनयोः-इण्, डित्। पक्षिणम् (न) उपमार्थे (पाशिनः) जालवन्तो व्याधाः (अति) अतीत्य (धन्व) अ० ४।४।७। निर्जलं मरुदेशम् (इव) यथा (तान्) शत्रून् (इहि) गच्छ ॥
इस भाष्य को एडिट करें