Loading...
अथर्ववेद > काण्ड 7 > सूक्त 118

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 118/ मन्त्र 1
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, वरुणः, देवगणः छन्दः - त्रिष्टुप् सूक्तम् - वर्मधारण सूक्त

    मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

    स्वर सहित पद पाठ

    मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोम॑: । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रो: । वरी॑य: । वरु॑ण: । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वा: । म॒द॒न्तु॒ ॥१२३.१॥


    स्वर रहित मन्त्र

    मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्। उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

    स्वर रहित पद पाठ

    मर्माणि । ते । वर्मणा । छादयामि । सोम: । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरो: । वरीय: । वरुण: । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवा: । मदन्तु ॥१२३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 118; मन्त्र » 1

    टिप्पणीः - १−(मर्माणि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मृङ् प्राणत्यागे-मनिन्। शरीरसन्धिस्थानानि (ते) तव (वर्मणा) कवचेन (छादयामि) संवृणोमि (सोमः) ऐश्वर्यवान् (राजा) शासकः कोशाध्यक्षः (अमृतेन) मृत्युनिवारकेण शस्त्रास्त्रवस्त्रान्नौषधादिना वस्तुना (अनु) निरन्तरम् (वस्ताम्) आच्छादयतु (उरोः) उरुणः। विस्तृतात् (वरीयः) उरुतरं (स्थानम्) (वरुणः) श्रेष्ठो मार्गदर्शकः (कृणोतु) करोतु (जयन्तम्) अ० ६।९७।३। विजयिनम् (त्वा) (अनु) अनुलक्ष्य (देवाः) विजिगीषवो वीराः (मदन्तु) हृष्यन्तु ॥

    इस भाष्य को एडिट करें
    Top