Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 29/ मन्त्र 1
सूक्त - मेधातिथिः
देवता - अग्नाविष्णू
छन्दः - त्रिष्टुप्
सूक्तम् - अग्नाविष्णु सूक्त
अग्ना॑विष्णू॒ महि॒ तद्वां॑ महि॒त्वं पा॒थो घृ॒तस्य॒ गुह्य॑स्य॒ नाम॑। दमे॑दमे स॒प्त रत्ना॒ दधा॑नौ॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्यात् ॥
स्वर सहित पद पाठअग्ना॑विष्णू॒ इति॑ । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । पा॒थ: । घृ॒तस्य॑ । गुह्य॑स्य । नाम॑ । दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नौ । प्रति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । आ । च॒र॒ण्या॒त् ॥३०.१॥
स्वर रहित मन्त्र
अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम। दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात् ॥
स्वर रहित पद पाठअग्नाविष्णू इति । महि । तत् । वाम् । महिऽत्वम् । पाथ: । घृतस्य । गुह्यस्य । नाम । दमेऽदमे । सप्त । रत्ना । दधानौ । प्रति । वाम् । जिह्वा । घृतम् । आ । चरण्यात् ॥३०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 29; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अग्नाविष्णू) देवताद्वन्द्वे च। पा० ६।३।२६। पूर्वपदस्यानङ्। हे विद्युत्सूर्यौ (महि) महत् (तत्) प्रसिद्धम् (वाम्) युवयोः (महित्वम्) महत्त्वं प्रभुत्वम् (पाथः) पा रक्षणे-लट्। रक्षथः (घृतस्य) साररसस्य (गुह्यस्य) अ० ३।५।३। गोपनीयस्य। गुप्तस्य (नाम) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति नमतेर्मनिन्, मलोपो दीर्घश्च। नमनं प्रापणम् (दमेदमे) गृहे गृहे (सप्तरत्ना) रमणीयान् सप्तधातून्। रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः। इति शब्दकल्पद्रुमः (दधानौ) धारयन्तौ (प्रति) प्रत्यक्षम् (वाम्) युवयोः (जिह्वा) शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये-वन्, हुक् च। जयशक्तिः (घृतम्) साररसम् (आचरण्यात्) चरण गतौ कण्ड्वादौ-लेट्। आचरेत्। साधयेत् ॥
इस भाष्य को एडिट करें