Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 2
    सूक्त - अथर्वा देवता - अदितिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - अदिति सूक्त

    म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे। तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥

    स्वर सहित पद पाठ

    म॒हीम् । ऊं॒ इति॑ । सु । मा॒तर॑म् । सु॒ऽव्र॒ताना॑म् । ऋ॒तस्य॑ । पत्नी॑म् । अव॑से । ह॒वा॒म॒हे॒ । तु॒वि॒ऽक्ष॒त्राम् । अ॒जर॑न्तीम् । ऊ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ॥६.२॥


    स्वर रहित मन्त्र

    महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥

    स्वर रहित पद पाठ

    महीम् । ऊं इति । सु । मातरम् । सुऽव्रतानाम् । ऋतस्य । पत्नीम् । अवसे । हवामहे । तुविऽक्षत्राम् । अजरन्तीम् । ऊरूचीम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ॥६.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 2

    टिप्पणीः - २−(महीम्) महतीम् (उ) अवधारणे (सु) सुष्ठु। सत्कारेण (मातरम्) मातृसमानहिताम् (सुव्रतानाम्) शोभनकर्मवताम् (ऋतस्य) सत्यधर्मस्य (पत्नीम्) पालयित्रीम् (अवसे) रक्षणाय (हवामहे) आह्वयामः (तुविक्षत्राम्) बहुबलां बहुधनाम् (अजरन्तीम्) अजराम् (उरूचीम्) अ० ३।३।१। बहुविस्तारगताम् (सुशर्म्माणम्) उत्तमगृहयुक्ताम्। बहुसुखवतीम् (अदितिम्) अ० २।२८।४। अदीनां पृथिवीम्-निघ० १।१। (सुप्रणीतिम्) सुष्ठु प्रकृष्टनीतियुक्ताम् ॥

    इस भाष्य को एडिट करें
    Top