Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 4
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑ उ॒पस्थ॑ उ॒र्वन्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥
स्वर सहित पद पाठवाज॑स्य । नु । प्र॒ऽस॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒म॒हे॒ । यस्या॑: । उ॒पऽस्थे॑ । उ॒रु । अ॒न्तरि॑क्षम् । सा । न॒: । शर्म॑ । त्रि॒ऽवरू॑थम् । नि । य॒च्छा॒त् ॥७.२॥
स्वर रहित मन्त्र
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे। यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात् ॥
स्वर रहित पद पाठवाजस्य । नु । प्रऽसवे । मातरम् । महीम् । अदितिम् । नाम । वचसा । करामहे । यस्या: । उपऽस्थे । उरु । अन्तरिक्षम् । सा । न: । शर्म । त्रिऽवरूथम् । नि । यच्छात् ॥७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(वाजस्य) अन्नस्य-निघ० २।७। बलस्य-निघ० २।९। (नु) इदानीम् (प्रसवे) उत्पादने (मातरम्) निर्मात्रीम् (महीम्) विशालाम् (अदितिम्) अदीनां शक्ति परमेश्वरम् (नाम) प्रसिद्ध्या (वचसा) वेदवचनेन (करामहे) छान्दसः शप्। आकुर्महे। स्वीकुर्मः (यस्याः) अदितेः (उपस्थे) उत्सङ्गे (उरु) विस्तृतम् (अन्तरिक्षम्) आकाशम् (सा) अदितिः (नः) अस्मभ्यम् (शर्म) गृहम्-निघ० ३।४। (त्रिवरूथम्) जॄवृञ्भ्यामूथन्। उ० २।६। इति वृञ् वरणे-ऊथन्। त्रीणि वरूथानि वरणीयान्याध्यात्मिकाधिदैविकाधि-भौतिकानि सुखानि यस्मिन् तत् (नि) नियमेन (यच्छात्) दाण् दाने-लेट्। दधात् ॥
इस भाष्य को एडिट करें