Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 7/ मन्त्र 1
दितेः॑ पु॒त्राणा॒मदि॑तेरकारिष॒मव॑ दे॒वानां॑ बृह॒ताम॑न॒र्मणा॑म्। तेषां॒ हि धाम॑ गभि॒षक्स॑मु॒द्रियं॒ नैना॒न्नम॑सा प॒रो अ॑स्ति॒ कश्च॒न ॥
स्वर सहित पद पाठदिते॑: । पु॒त्राणा॑म् । अदि॑ते: । अ॒का॒रि॒ष॒म् । अव॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्मणा॑म् । तेषा॑म् । हि । धाम॑ । ग॒भि॒ऽसक् । स॒मु॒द्रिय॑म् । न । ए॒ना॒न् । नम॑सा । प॒र: । अ॒स्ति॒ । क: । च॒न ॥८.१॥
स्वर रहित मन्त्र
दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम्। तेषां हि धाम गभिषक्समुद्रियं नैनान्नमसा परो अस्ति कश्चन ॥
स्वर रहित पद पाठदिते: । पुत्राणाम् । अदिते: । अकारिषम् । अव । देवानाम् । बृहताम् । अनर्मणाम् । तेषाम् । हि । धाम । गभिऽसक् । समुद्रियम् । न । एनान् । नमसा । पर: । अस्ति । क: । चन ॥८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 7; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(दितेः) दीङ् क्षये-क्तिन्। दीनतायाः सकाशात् (पुत्राणाम्) अ० १।११।५। पूङ् शोधे-क्त्र। पुत्रः पुरु त्रायते-निघ० २।११। पुरु+त्रैङ् रक्षणे-ड। पावकानां शोधकानाम्। बहुत्रातॄणाम् (अदितेः) षष्ठीरूपम्। अदीनतायाः (अकारिषम्) कॄ विज्ञाने-लुङ्। इति शब्दकल्पद्रुमः। विज्ञातवानस्मि (अव) निश्चयेन (देवानाम्) देवो दानाद्वा दीपनाद् वा-निरु० ७।१५। दातॄणां प्रकाशकानां वा (बृहताम्) गुणैर्महताम् (अनर्मणाम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। ऋ हिंसायाम्-मनिन्। अहिंसकानाम् अहिंसनीयानाम् (तेषाम्) प्रसिद्धानां पुरुषाणाम् (हि) एव (धाम) धारणसामर्थ्यम् (गभिषक्) सर्वधातुभ्य इन्। उ० ४।११८। इति गम्लृ गतौ-इन् मस्य भः+षञ्ज सङ्गे-क्विप्। गम्भीरतायुक्तम् (समुद्रियम्) समुद्राभ्राद् घः। पा०। ४।४।११८। इति समुद्र-घ। आन्तरिक्षे पार्थिवे वा समुद्रे भवम् (न) निषेधे (एनान्) पुरुषान् (नमसा) अन्नेन-निघ० २।७। सत्कारेण (परः) शत्रुः (अस्ति) अस ग्रहणे गतौ च। शपो लुक् छान्दसः। असति गृह्णाति गच्छति प्राप्नोति वा (कश्चन) कोऽपि ॥
इस भाष्य को एडिट करें