Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 3
    सूक्त - अथर्वा देवता - अदितिः छन्दः - विराड्जगती सूक्तम् - आदित्यगण सूक्त

    सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्। दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रणी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गस: । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥७.१॥


    स्वर रहित मन्त्र

    सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्। दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥

    स्वर रहित पद पाठ

    सुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रणीतिम् । दैवीम् । नावम् । सुऽअरित्राम् । अनागस: । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 3

    टिप्पणीः - ३−(सुत्रामाणम्) सुरक्षित्रीम् (पृथिवीम्) अ० १।२।१। विस्तृताम् (द्याम्) गमेर्डोः। उ० २।६७। द्यु अभिगमने−डो। अभिगन्तव्याम् (अनेहसम्) नञि हन एह च। उ० ४।२२४। अ+हन-असि। एन एतेः-निरु० ११।२४। अहिंसनीयाम् (सुशर्म्माणम्) बहुसुखवतीम् (अदितिम्) अ० २।२८।४। अदीनां वेदवाचम्। अदितिः=वाक्-निघ० १।११। (सुप्रणीतिम्) म० २ (दैवीम्) देव अञ्। विद्वद्भिनिर्मिताम् (नावम्) नोदनीयां नौकाम् (स्वरित्राम्) अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। ऋ गतौ-इत्र। शोभननौकाचालनकाष्ठयुक्ताम् (अनागसः) अ० २।१०।१। इण आगोऽपराधे च। उ० ४।११२। इण् गतौ असुन्, आगादेशः। अनागस्त्वमनपराधत्वम्। आग आङ्पूर्वाद् गमेः-निरु० ११।२४। अनपराधाः (अस्रवन्तीम्) स्रवणरहिताम् (आ रुहेम) आरूढा भूयास्म (स्वस्तये) क्षेमाय ॥

    इस भाष्य को एडिट करें
    Top