Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 3
    सूक्त - अथर्वा देवता - श्येनः छन्दः - पुरःककुम्मत्यनुष्टुप् सूक्तम् - शत्रुदमन सूक्त

    अ॑जिराधिरा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव। आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ॥

    स्वर सहित पद पाठ

    अ॒जि॒र॒ऽअ॒धि॒रा॒जौ । श्ये॒नौ । सं॒पा॒तिनौ॑ऽइव । आज्य॑म् । पृ॒त॒न्य॒त: । ह॒ता॒म् । य: । न॒: । क: । च॒ । अ॒भि॒ऽअ॒घा॒यति ॥७३.३॥


    स्वर रहित मन्त्र

    अजिराधिराजौ श्येनौ संपातिनाविव। आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥

    स्वर रहित पद पाठ

    अजिरऽअधिराजौ । श्येनौ । संपातिनौऽइव । आज्यम् । पृतन्यत: । हताम् । य: । न: । क: । च । अभिऽअघायति ॥७३.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 3

    टिप्पणीः - ३−(अजिराधिराजौ) अजिरशिशिरशिथिल०। उ० १।५३। अज गतिक्षेपणयोः-किरच्। अजिरः शीघ्रगामी। अधिराजः। राजाहःसखिभ्यष्टच् पा० ५।४।९१। इति टच्। अधिको राजा। तौ निर्ऋतिमृत्यू (श्येनौ) अ० ३।३।३। पक्षिविशेषौ (सम्पातिनौ) निष्पतनशीलौ (इव) यथा (आज्यम्) घृतम्। तत्त्वपदार्थम् (पृतन्यतः) अ० १।२१।२। सङ्ग्रामेच्छोः (हताम्) नाशयताम् (यः) (नः) अस्मान् (कः च) कश्चित् (अभ्यघायति) अ० ५।६।९। पापं कर्तुमिच्छति ॥

    इस भाष्य को एडिट करें
    Top