अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.४॥
स्वर रहित मन्त्र
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अपाञ्चौ) अपाञ्चनौ पृष्ठे सम्बद्धौ (ते) तव (उभौ) द्वौ (बाहू) भुजौ (अपि) एव (नह्यामि) बध्नामि (आस्यम्) मुखम् (अग्नेः) तेजस्विनः सेनापतेः (देवस्य) विजयमानस्य (मन्युना) तेजसा। क्रोधेन (ते) तव (अवधिषम्) हन्तेर्लुङ्। नाशितवानस्मि (हविः) होतव्यम्। ग्राह्यं द्रव्यम् ॥
इस भाष्य को एडिट करें