Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 74/ मन्त्र 4
सूक्त - अथर्वाङ्गिराः
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह। तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥
स्वर सहित पद पाठव्र॒तेन॑ । त्वम् । व्र॒त॒ऽप॒ते॒ । सम्ऽअ॑क्त: । वि॒श्वाहा॑ । सु॒ऽमना॑: । दी॒दि॒हि॒ । इ॒ह । तम् । त्वा॒ । व॒यम् । जा॒त॒ऽवे॒द॒: । सम्ऽइ॑ध्दम् । प्र॒जाऽव॑न्त: । उप॑ । स॒दे॒म॒ । सर्वे॑ ॥७८.४॥
स्वर रहित मन्त्र
व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह। तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥
स्वर रहित पद पाठव्रतेन । त्वम् । व्रतऽपते । सम्ऽअक्त: । विश्वाहा । सुऽमना: । दीदिहि । इह । तम् । त्वा । वयम् । जातऽवेद: । सम्ऽइध्दम् । प्रजाऽवन्त: । उप । सदेम । सर्वे ॥७८.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 74; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(व्रतेन) अ० २।३०।२। वरणीयेन नियमेन (त्वम्) (व्रतपते) सत्कर्मणां पालक परमेश्वर विद्वन् वा (समक्तः) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। संगतः (विश्वाहा) सर्वाणि दिनानि (सुमनाः) प्रसन्नचित्तः (दीदिहि) अ० २।६।१। लोपो व्योर्वलि। पा० ६।१।६६। इति वलोपः। दीप्यस्व (इह) अस्माकं मध्ये (तम्) (त्वा) (वयम्) (जातवेदः) अ० १।७।२। हे प्रसिद्धप्रज्ञ। प्रसिद्धधन (समिद्धम्) सम्यग्दीप्तम् (प्रजावन्तः) प्रशस्तपुत्रपौत्रभृत्यादिसहिताः (उप सदेम) षद्लृ विशरणगत्यादिषु-लिङ्याशिष्यङ्। पा० ३।१।८६। इत्यङ्। उपसद्यास्म। परिचर्यास्म (सर्वे) ॥
इस भाष्य को एडिट करें