Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥

    स्वर सहित पद पाठ

    य: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रत‍ि॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥


    स्वर रहित मन्त्र

    यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥

    स्वर रहित पद पाठ

    य: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रत‍ि । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2

    टिप्पणीः - २−(यः) (नः) अस्मान् (मर्तः) मनुष्यः (मरुतः) हे शूरगणाः (दुर्हृणायुः) हृणीयते क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायां च-क। छन्दसीणः। उ० १।२। हृण+इण् गतौ-ञुण्। दुर्हृणं दुष्टं क्रोधं गतः। प्राप्तक्रोधः (तिरः) तिरस्कृत्य। उल्लङ्घ्य (चित्तानि) अन्तःकरणानि (वसवः) हे वासयितारः (जिघांसति) हन्तुमिच्छति (द्रुहः) द्रोहस्य। अनिष्टस्य (पाशान्) बन्धान् (प्रति) प्रत्यक्षम् (मुञ्चताम्) त्यजतु (सः) शत्रुः (तपिष्ठेन) तापयितृतमेन (तपसा) ऐश्वर्येण तापकेनायुधेन वा (हन्तन) तस्य तनप्। हत ॥

    इस भाष्य को एडिट करें
    Top