Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 1
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - त्रिपदा गायत्री सूक्तम् - शत्रुनाशन सूक्त

    सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन। अ॒स्माको॒ती रि॑शादसः ॥

    स्वर सहित पद पाठ

    साम्ऽत॑पना: । इ॒दम् । ह॒वि: । मरु॑त: । तत् । जु॒जु॒ष्ट॒न॒ । अ॒स्माक॑ । ऊ॒ती । रि॒शा॒द॒स॒: ॥८२.१॥


    स्वर रहित मन्त्र

    सांतपना इदं हविर्मरुतस्तज्जुजुष्टन। अस्माकोती रिशादसः ॥

    स्वर रहित पद पाठ

    साम्ऽतपना: । इदम् । हवि: । मरुत: । तत् । जुजुष्टन । अस्माक । ऊती । रिशादस: ॥८२.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 1

    टिप्पणीः - १−(सांतपनाः) सम्+तप ऐश्वर्ये-ल्युट्। तत्र भवः। पा० ४।३।५३। अण्। संतपने पूर्णैश्वर्ये भवा वर्तमानाः (इदम्) समीपस्थम् (हविः) ग्राह्यं कर्म (मरुतः) अ० १।२०।१। शूराः। विद्वांसः। ऋत्विजः-निघ० ३।१८। (तत्) दूरस्थम् (जुजुष्ठन) जुषतेः शपः श्लुः, तस्य तनादेशश्च। स्वीकुरुत (अस्माक) अस्माकम् (ऊती) चतुर्थ्याः पूर्वसवर्णदीर्घः। ऊतये रक्षार्थम् (रिशादसः) अ० २।२८।२। हिंसकानां हिंसकाः ॥

    इस भाष्य को एडिट करें
    Top