Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त

    सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः। ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥

    स्वर सहित पद पाठ

    स॒म्ऽव॒त्स॒रीणा॑: । म॒रुत॑: । सु॒ऽअ॒र्का: । उ॒रुऽक्ष॑या: । सऽग॑णा: । मानु॑षास: । ते । अ॒स्मत् । पाशा॑न् । प्र । मु॒ञ्च॒न्तु॒ । एन॑स: । सा॒म्ऽत॒प॒ना: । म॒त्स॒रा: । मा॒द॒यि॒ष्णव॑: ॥८२.३॥


    स्वर रहित मन्त्र

    संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः। ते अस्मत्पाशान्प्र मुञ्चन्त्वेनसः सांतपना मत्सरा मादयिष्णवः ॥

    स्वर रहित पद पाठ

    सम्ऽवत्सरीणा: । मरुत: । सुऽअर्का: । उरुऽक्षया: । सऽगणा: । मानुषास: । ते । अस्मत् । पाशान् । प्र । मुञ्चन्तु । एनस: । साम्ऽतपना: । मत्सरा: । मादयिष्णव: ॥८२.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 3

    टिप्पणीः - ३−(संवत्सरीणाः) संपूर्वाच्चित्। उ० ३।७२। सम्+वस निवासे-सरन्। सः स्यार्धधातुके। पा० ७।४।४९। सस्य तत्वम्। संपरिपूर्वात् ख च। पा० ५।१।९२। संवत्सर-ख, अधीष्टार्थे। सम्वत्सरं सम्यग् निवासकालमधीष्टाः प्रार्थिताः (मरुतः)-म० १। शूराः (स्वर्काः) अ० ७।२४।१। सुवज्रिणः (उरुक्षयाः) क्षि निवासगत्योरैश्वर्ये च विस्तीर्णगृहाः (सगणाः) सैन्यैः सहिताः (मानुषासः) अ० ४।१४।५। असुक्। मनुर्मननं येषां ते (ते) मरुतः (अस्मत्) अस्मत्तः (पाशान्) बन्धान् (प्र) (मुञ्चन्तु) मोचयन्तु (एनसः) पापस्य (सांतपनाः)-म० १। पूर्णैश्वर्यवन्तः (मत्सराः) अ० ४।२५।६। मदी हर्षे-सरन्। हृष्टाः। प्रसन्नाः (मादयिष्णवः) णेश्छन्दसि। पा० ३।२।१३७। मादयतेः-इष्णुच्। हर्षकराः ॥

    इस भाष्य को एडिट करें
    Top