Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 2
सूक्त - शुनःशेपः
देवता - वरुणः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - पाशमोचन सूक्त
धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण मुञ्च नः। यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म ततो॑ वरुण मुञ्च नः ॥
स्वर सहित पद पाठधाम्न॑:ऽधाम्न: । रा॒ज॒न् । इ॒त: । व॒रु॒ण॒ । मु॒ञ्च॒ । न॒: । यत् । आप॑: । अ॒घ्न्या: । इति॑ । वरु॑ण । इति॑ । यत् । ऊ॒चि॒म । तत॑: । व॒रु॒ण॒ । मु॒ञ्च॒ । न॒: ॥८८.२॥
स्वर रहित मन्त्र
धाम्नोधाम्नो राजन्नितो वरुण मुञ्च नः। यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥
स्वर रहित पद पाठधाम्न:ऽधाम्न: । राजन् । इत: । वरुण । मुञ्च । न: । यत् । आप: । अघ्न्या: । इति । वरुण । इति । यत् । ऊचिम । तत: । वरुण । मुञ्च । न: ॥८८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(धाम्नोधाम्नः) म० १। वीप्सायां द्विर्वचनम्। प्रत्येकबन्धनात् (राजन्) (इतः) अस्मात् (वरुण) सर्वश्रेष्ठ (मुञ्च) (नः) अस्मान् (यत्) यस्मात् कारणात् (आपः) प्राणाः−दयानन्दभाष्ये यजु० २०।१८ (अघ्न्याः) अ० ३।३०।१। अहन्तव्या गावो यथा (इति) अनेन प्रकारेण (वरुण) सर्वोत्कृष्ट (इति) एवम् (यत्) यत् किञ्चित् (ऊचिम) ब्रूञ्-लिट्। वयं कथितवन्तः (ततः) तस्मात् क्लेशबन्धनात् (वरुण) दुःखनिवारक (मुञ्च) पृथक् कुरु (नः) अस्मान् ॥
इस भाष्य को एडिट करें