Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 1
अ॒प्सु ते॑ राजन्वरुण गृ॒हो हि॑र॒ण्ययो॑ मि॒थः। ततो॑ धृ॒तव्र॑तो॒ राजा॒ सर्वा॒ धामा॑नि मुञ्चतु ॥
स्वर सहित पद पाठअ॒प्ऽसु । ते॒ । रा॒ज॒न् । व॒रु॒ण॒ । गृ॒ह: । हि॒र॒ण्यय॑: । मि॒थ: । तत॑: । धृ॒तऽव्र॑त: । राजा॑ । सर्वा॑ । धामा॑नि । मु॒ञ्च॒तु॒ ॥८८.१॥
स्वर रहित मन्त्र
अप्सु ते राजन्वरुण गृहो हिरण्ययो मिथः। ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥
स्वर रहित पद पाठअप्ऽसु । ते । राजन् । वरुण । गृह: । हिरण्यय: । मिथ: । तत: । धृतऽव्रत: । राजा । सर्वा । धामानि । मुञ्चतु ॥८८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अप्सु) आपः प्राणाः−दयानन्दभाष्ये यजु० २०।१८। प्राणेषु (ते) तव (राजन्) ऐश्वर्यवन् (वरुण) सर्वश्रेष्ठ परमेश्वर (ग्रहः) ग्रहणसामर्थ्यम् (हिरण्ययः) अ० ४।२।८। तेजोमयः (मिथः) मिथ ज्ञाने-असुन् स च कित्। परस्परम् (ततः) तस्मात् कारणात् (धृतव्रतः) नियमधारकः (राजा) शासकः (सर्वा) सर्वाणि (धामानि) दधातेर्मनिन्। धीयन्ते बध्यन्ते। बन्धनानि (मुञ्चतु) मोचयतु ॥
इस भाष्य को एडिट करें