Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 3
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते त॒वाना॑गसो॒ अदि॑तये स्याम ॥
स्वर सहित पद पाठउत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒य॒थ॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥८८.३॥
स्वर रहित मन्त्र
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय। अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
स्वर रहित पद पाठउत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रयथ । अध । वयम् । आदित्य । व्रते । तव । अनागस: । अदितये । स्याम ॥८८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(उत्) ऊर्ध्वम्। उत्कृष्य (उत्तमम्) ऊर्ध्वस्थिम् (पाशम्) बन्धनम् (अस्मत्) अस्मत्तः (अव) अधस्तात्। अवकृष्य (अधमम्) नीचस्थम् (वि) विविधम् (मध्यमम्) मध्यस्थम् (श्रथाय) श्रथ दौर्बल्ये, चुरादिः, छान्दसो दीर्घः। शिथीलीकुरु। विमोचय (अध) अथ। अनन्तरम् (आदित्य) अ० १।९।१। आ+दीपी दीप्तौ-यक्। यद्वा। नञ्−दो अव खण्डने-क्तिन्, ततो ण्य प्रत्ययः। सर्वतः प्रकाशमान। अदितिरखण्डनं यस्यास्ति आदित्यः। हे अखण्डनीय (व्रते) वरणीये नियमे (तव) (अनागसः) अ० ७।७।१। अनपराधिनः। (अदितये) अ० २।२८।४। अदीनायै पृथिव्यै, तद्राज्याय (स्याम) भवेम ॥
इस भाष्य को एडिट करें