Loading...
अथर्ववेद > काण्ड 7 > सूक्त 85

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
    सूक्त - अथर्वा देवता - तार्क्ष्यः छन्दः - त्रिष्टुप् सूक्तम् - अरिष्टनेमि सूक्त

    त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥

    स्वर सहित पद पाठ

    त्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥


    स्वर रहित मन्त्र

    त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥

    स्वर रहित पद पाठ

    त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1

    टिप्पणीः - १−(त्यम्) तं प्रसिद्धम् (उ) एव (सु) पूजायाम् (वाजिनम्) अन्नवन्तम् (देवजूतम्) जु गतौ-क्त। जूर्गतिः प्रीतिर्या देवजूतं देवगतं देवप्रीतं वा-निरु० १०।२८। विद्वद्भिः प्रेरितम् (सहोवानम्) छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०९। सहस्-वनिप्। सहस्वन्तं बलवन्तम् (तरुतारम्) ग्रसितस्कभित०। पा० ७।२।३४। तरतेस्तृचि उडागमः। तरीतारम्। तारयितारम् (रथानाम्) यानानाम् (अरिष्टनेमिम्) रिष हिंसायाम्-क्त। नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। नेमिर्वज्रनाम-निघ० २।२०। अच्छिन्नवज्रम् (पृतनाजिम्) वातेर्डिच्च। उ० ४।१३४। जि जये-इण्, स च डित्। शत्रुसेनानां जेतारम् (आशुम्) अ० २।१४।६। अशूङ् व्याप्तौ संघाते च। उण्। व्यापनशीलम् (स्वस्तये) कल्याणाय (तार्क्ष्यम्) तृक्ष गतौ-घञ्, बाहुलकाद् वृद्धिः। तत्र साधुः। पा० ४।४।९८। तार्क्ष-यत्। तार्क्ष्ये वेगे साधुम्। वेगवन्तं राजानम्। तार्क्ष्योऽश्वनाम-निघ० १।१४। तार्क्ष्यस्त्वष्ट्रा व्याख्यातः, तीर्णेऽन्तरिक्षे क्षियति तूर्णमर्थं रक्षत्यश्नोतेर्वा-निरु० १०।२७। (इह) अत्र (आ हुवेम) अ० ७।४०।२। आह्वयेम ॥

    इस भाष्य को एडिट करें
    Top