Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 3
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रभृदग्नि सूक्त
मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥
स्वर सहित पद पाठमृ॒ग: । न । भी॒म: । कु॒च॒र: । गि॒रि॒ऽस्था: । प॒रा॒ऽवत॑: । आ । ज॒ग॒म्या॒त् । पर॑स्या: । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ढि॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥८९.३॥
स्वर रहित मन्त्र
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताढि वि मृधो नुदस्व ॥
स्वर रहित पद पाठमृग: । न । भीम: । कुचर: । गिरिऽस्था: । पराऽवत: । आ । जगम्यात् । परस्या: । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृध: । नुदस्व ॥८९.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सृकम्) सृवृभू०। उ० ३।४१। सृ गतौ-कक्। बाणम् (संशाय) शो तनूकरणे−ल्यप्। तीक्ष्णीकृत्य (पविम्) वज्रम्-निघ० २।२०। (इन्द्र) परमैश्वर्यवन् राजन् (तिग्मम्) अ० ४।२७।७। तिग्मं तेजतेरुत्साहकर्मणः-निघ० १०।६। उत्साहवन्तम् (वि) विशेषेण (ताढि) तड आघाते-लोट्। छन्दस्युभयथा। पा० ३।४।११७। हेरार्धधातुकत्वाद् णिलोपः। ताडय (वि) विविधम् (मृधः) हिंसकान् (नुदस्व) प्रेरय। अन्यद् गतम्-अ० ७।२६।२ ॥
इस भाष्य को एडिट करें