Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 2
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रभृदग्नि सूक्त
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्रा॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥
स्वर सहित पद पाठइन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओज॑: । अजा॑यथा: । वृ॒ष॒भ॒: । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒द॒: । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्य॑: । अ॒कृ॒णो॒: । ऊं॒ इति॑ । लो॒कम् ॥८९.२॥
स्वर रहित मन्त्र
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम्। अपानुदो जनममित्रायन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥
स्वर रहित पद पाठइन्द्र । क्षत्रम् । अभि । वामम् । ओज: । अजायथा: । वृषभ: । चर्षणीनाम् । अप । अनुद: । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्य: । अकृणो: । ऊं इति । लोकम् ॥८९.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(इन्द्र) परमैश्वर्यवन् राजन् (क्षत्रम्) क्षतात् त्रायकं राज्यम् (अभि) अभिलक्ष्य (वामम्) प्रशस्यम्-निघ० ३।८। (ओजः) पराक्रमम् (अजायथाः) उत्पन्नोऽभवः (चर्षणीनाम्) मनुष्याणाम्-निघ० २।३। (अप अनुदः) अपागमयः (जनम्) लोकम् (अमित्रयन्तम्) उपमानादाचारे। पा० ३।१।१०। अमित्र-क्यच्, शतृ। नच्छन्दस्य पुत्रस्य। पा० ७।४।३५। इति ईत्वस्य आत्वस्य च निषेधः। सांहितिको दीर्घः। अमित्रः शत्रुः स इवाचरन्तम् (उरुम्) विस्तीर्णम् (देवेभ्यः) विजिगीषुभ्यः (अकृणोः) अकार्षीः (उ) समुच्चये (लोकम्) स्थानम् ॥
इस भाष्य को एडिट करें