Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 1
अ॑नाधृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह। विश्वा॒ अमी॑वाः प्रमु॒ञ्चन्मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ॥
स्वर सहित पद पाठअ॒ना॒धृ॒ष्य: । जा॒तऽवे॑दा: । अम॑र्त्य: । वि॒ऽराट् । अ॒ग्ने॒ । क्ष॒त्र॒ऽभृत् । दी॒दि॒हि॒ । इ॒ह । विश्वा॑: । अमी॑वा: । प्र॒ऽमु॒ञ्चन् । मानु॑षीभि: । शि॒वाभि॑: । अ॒द्य । परि॑ । पा॒हि॒ । न॒: । गय॑म् ॥ ८९.१॥
स्वर रहित मन्त्र
अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह। विश्वा अमीवाः प्रमुञ्चन्मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥
स्वर रहित पद पाठअनाधृष्य: । जातऽवेदा: । अमर्त्य: । विऽराट् । अग्ने । क्षत्रऽभृत् । दीदिहि । इह । विश्वा: । अमीवा: । प्रऽमुञ्चन् । मानुषीभि: । शिवाभि: । अद्य । परि । पाहि । न: । गयम् ॥ ८९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अनाधृष्यः) ऋदुपधाच्चाक्लृपिचृतेः। ३।१।११०। ञिधृषा प्रागल्भ्ये पराभवे च-क्यप्। धर्षितुमयोग्यः। अजेयः (जातवेदाः) अ० १।७।२। प्रसिद्धज्ञानः। बहुधनः (अमर्त्यः) अ० ४।३७।१२। अमरः। यशस्वी (विराट्) राजतिरैश्वर्यकर्मा-निघ० २।२१। क्विप्। विविधैश्वर्यवान् (अग्ने) हे प्रतापिन् राजन् (क्षत्रभृत्) राज्यपोषकः (दीदिहि) अ० ७।७४।४। दीप्यस्व (इह) अस्माकं मध्ये (विश्वाः) सर्वाः (अमीवाः) अ० ७।४२।१। पीडाः (प्रमुञ्चन्) निवारयन् (मानुषीभिः) अ० ४।३२।२। मनुर्हिताभिः (शिवाभिः) अ० २।६।३। मङ्गलकारिकाभिः क्रियाभिः। मुक्तिभिः (अद्य) इदानीम् (परि) (पाहि) (नः) अस्माकम् (गयम्) अ० ६।३।३। गृहम् ॥
इस भाष्य को एडिट करें