Loading...
अथर्ववेद > काण्ड 7 > सूक्त 86

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 86/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - त्राता इन्द्र सूक्त

    त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्। हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥

    स्वर सहित पद पाठ

    त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । हु॒वे । नु । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । न॒: । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ ॥९१.१॥


    स्वर रहित मन्त्र

    त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान्कृणोतु ॥

    स्वर रहित पद पाठ

    त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । न: । इन्द्र: । मघऽवान् । कृणोतु ॥९१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 86; मन्त्र » 1

    टिप्पणीः - १−(त्रातारम्) त्रैङ् पालने-तृच्। पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (अवितारम्) तर्पयितारम् (इन्द्रम्) सभाध्यक्षम् (हवेहवे) सङ्ग्रामे सङ्ग्रामे (सुहवम्) यथावत् सङ्ग्रामिणम् (शूरम्) पराक्रमिणम् (इन्द्रम्) सेनापतिम् (हुवे) आह्वयामि (नु) शीघ्रम् (शक्रम्) अ० २।५।४। शक्तिमन्तम् (पुरुहूतम्) बहुभिः पुरुषैराहूतम् (इन्द्रम्) प्रतापिनम् (स्वस्ति) सुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यः (मघवान्) अ० ६।५८।१। धनवान् (कृणोतु) करोतु ॥

    इस भाष्य को एडिट करें
    Top