Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - द्विपदा विराड्गायत्री सूक्तम् - विराट् सूक्त

    तद्यस्मा॑ ए॒वं वि॒दुषे॒ऽलाबु॑नाभिषि॒ञ्चेत्प्र॒त्याह॑न्यात् ॥

    स्वर सहित पद पाठ

    तत् । यस्मै॑ । ए॒वम् । वि॒दुषे॑ । अ॒लाबु॑ना । अ॒भि॒ऽसि॒ञ्चेत् । प्र॒ति॒ऽआह॑न्यात् ॥१५.१॥


    स्वर रहित मन्त्र

    तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥

    स्वर रहित पद पाठ

    तत् । यस्मै । एवम् । विदुषे । अलाबुना । अभिऽसिञ्चेत् । प्रतिऽआहन्यात् ॥१५.१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 6; मन्त्र » 1

    टिप्पणीः - १−(तत्) तनोतीति तत्। तनु विस्तारे-क्विप्। गमः क्वौ। पा० ६।४।४०। गमादीनामिति वक्तव्यम्, वार्तिकम्। मलोपः, तुक्। विस्तारकं ब्रह्म (एवम्) अनेन प्रकारेण (यस्मै विदुषे) सुपां सुपो भवन्तीति वक्तव्यम्। वा० पा० ७।१।३९। द्वितीयार्थे चतुर्थी। यं विद्वांसम् (अलाबुना) पर्यायः ५ म० १४। न+लबि अवस्रंसने-उण्। अनधःपतनशीलेन कर्मणा (अभिषिञ्चेत्) अभितः सिञ्चेत् वर्धयेत् (प्रत्याहन्यात्) प्रतिरुन्ध्यात्-विषमिति शेषः म० ३ ॥

    इस भाष्य को एडिट करें
    Top