अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी बृहती
सूक्तम् - अतिथि सत्कार
ए॒ष वा अति॑थि॒र्यच्छ्रोत्रि॑य॒स्तस्मा॒त्पूर्वो॒ नाश्नी॑यात् ॥
स्वर सहित पद पाठए॒ष: । वै । अति॑थि: । यत् । श्रोत्रि॑य: । तस्मा॑त् । पूर्व॑: । न । अ॒श्नी॒या॒त् ॥८.७॥
स्वर रहित मन्त्र
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात् ॥
स्वर रहित पद पाठएष: । वै । अतिथि: । यत् । श्रोत्रिय: । तस्मात् । पूर्व: । न । अश्नीयात् ॥८.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 3;
मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यत्) यस्मात् कारणात् (श्रोत्रियः) श्रोत्रियंश्छन्दोऽधीते। पा० ५।२।८४। छन्दस्-घन्। वेदाध्येतृपुरुषः (तस्मात्) अतिथेः सकाशात् (न) निषेधे (अश्नीयात्) जेमेत्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें