अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - पिपीलिकमध्योष्णिक्
सूक्तम् - अतिथि सत्कार
अ॑शि॒ताव॒त्यति॑थावश्नीयाद्य॒ज्ञस्य॑ सात्म॒त्वाय॑। य॒ज्ञस्यावि॑च्छेदाय॒ तद्व्र॒तम् ॥
स्वर सहित पद पाठअ॒शि॒तऽव॑ति । अति॑थौ । अ॒श्नी॒या॒त् । य॒ज्ञस्य॑ । सा॒त्म॒ऽत्वाय॑ । य॒ज्ञस्य॑ । अवि॑ऽछेदाय । तत् । व्र॒तम् ॥८.८॥
स्वर रहित मन्त्र
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय। यज्ञस्याविच्छेदाय तद्व्रतम् ॥
स्वर रहित पद पाठअशितऽवति । अतिथौ । अश्नीयात् । यज्ञस्य । सात्मऽत्वाय । यज्ञस्य । अविऽछेदाय । तत् । व्रतम् ॥८.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 3;
मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अशितवति) सांहितिको दीर्घः। भुक्तवति (अतिथौ) संन्यासिनि (अश्नीयात्) जेमेत् (यज्ञस्य) शुभव्यवहारस्य (सात्मत्वाय) सजीवनत्वाय। वृद्धिकरणाय (अविच्छेदाय) निरन्तरत्वाय। अविरामाय। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें