Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 9/ मन्त्र 11
    सूक्त - ब्रह्मा देवता - वामः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑। तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न च्छि॑द्यते॒ सना॑भिः ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । यस्मि॑न् । आ॒ऽत॒स्थु: । भुव॑नानि । विश्वा॑ । तस्य॑ । न । अक्ष॑: । त॒प्य॒ते॒ । भूरि॑ऽभार: । स॒नात् । ए॒व । न । छि॒द्य॒ते॒ । सऽना॑भि: ॥१४.११॥


    स्वर रहित मन्त्र

    पञ्चारे चक्रे परिवर्तमाने यस्मिन्नातस्थुर्भुवनानि विश्वा। तस्य नाक्षस्तप्यते भूरिभारः सनादेव न च्छिद्यते सनाभिः ॥

    स्वर रहित पद पाठ

    पञ्चऽअरे । चक्रे । परिऽवर्तमाने । यस्मिन् । आऽतस्थु: । भुवनानि । विश्वा । तस्य । न । अक्ष: । तप्यते । भूरिऽभार: । सनात् । एव । न । छिद्यते । सऽनाभि: ॥१४.११॥

    अथर्ववेद - काण्ड » 9; सूक्त » 9; मन्त्र » 11

    टिप्पणीः - ११−(पञ्चारे) पृथिव्यादिपञ्चभूतरूपैररैर्युक्ते (चक्रे) चक्रवत्परिवर्तिनि संसारे। चक्रवद्गम्यमाने-द० (परिवर्तमाने) परिभ्राम्यति सति (यस्मिन्) (आतस्थुः) अधितिष्ठन्ति (भुवनानि) लोकाः (विश्वा) सर्वाणि (तस्य) (न) निषेधे (अक्षः) अक्षू व्याप्तौ-अच्। चक्रावयवः (तप्यते) तप्तो भवति। पीड्यते (भूरिभारः) सकलभुवनवहनेन प्रभूतभारः (सनात्) सदा (एव) (छिद्यते) भिद्यते (सनाभिः) नाभौ चक्रमध्ये स्थितः ॥

    इस भाष्य को एडिट करें
    Top