Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 9/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - वामः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑। तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥

    स्वर सहित पद पाठ

    अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतु॑: । तस्य॑ । भ्राता॑ । म॒ध्य॒म: । अ॒स्ति॒ । अश्न॑: । तृ॒तीय॑: । भ्राता॑ । घृ॒तऽपृ॑ष्ठ: । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१४.१॥


    स्वर रहित मन्त्र

    अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः। तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥

    स्वर रहित पद पाठ

    अस्य । वामस्य । पलितस्य । होतु: । तस्य । भ्राता । मध्यम: । अस्ति । अश्न: । तृतीय: । भ्राता । घृतऽपृष्ठ: । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१४.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 9; मन्त्र » 1

    टिप्पणीः - १−(अस्य) दृश्यमानस्य जगतः (वामस्य) प्रशस्यस्य-निघ० ३।८। (पलितस्य) फलेरितजादेश्च पः। उ० ५।३४। फल निष्पत्तौ यद्वा ञिफला विशरणे−इतच्, फस्य पः। यद्वा पल गतौ पालने च−इतच्। पालयितुः-निरु० ४।२६। (होतुः) तर्पकस्य। दातुः (तस्य) आदित्यस्य (भ्राता) अ० ४।४।५। भ्रातेव हितकारी (मध्यमः) मध्यवर्ती (अश्नः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। अशू व्याप्तौ अश भोजने वा-न प्रत्ययः। अशनः। व्यापनः। अशनिः। विद्युत्। (तृतीयः) (भ्राता) (घृतपृष्ठः) पृष्ठं स्पृशतेः संस्पृष्टमङ्गैः-निरु० ४।३। घृतैः प्रकाशसाधनैः स्पृष्टः। (अस्य) सूर्यस्य (अत्र) सूर्ये (अपश्यम्) अद्राक्षम् (विश्पतिम्) विशां प्रजानां पालकम् (सप्तपुत्रम्) पुनातीति पुत्रः। सप्तानां त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धीनां शोधकम् ॥

    इस भाष्य को एडिट करें
    Top