अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 22
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - यक्ष्मनिवारण सूक्त
सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः। उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशोऽङ्गभे॒दम॑शीशमः ॥
स्वर सहित पद पाठसम् । ते॒ । शी॒र्ष्ण: । क॒पाला॑नि । हृद॑यस्य । च॒ । य: । वि॒धु॒: । उ॒त्ऽयन् । आ॒दि॒त्य॒ । र॒श्मिऽभि॑: । शी॒र्ष्ण: । रोग॑म् । अ॒नी॒न॒श॒म॒: । अङ्गऽभेदम् । अशीशम: ॥१३.२२॥
स्वर रहित मन्त्र
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः। उद्यन्नादित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥
स्वर रहित पद पाठसम् । ते । शीर्ष्ण: । कपालानि । हृदयस्य । च । य: । विधु: । उत्ऽयन् । आदित्य । रश्मिऽभि: । शीर्ष्ण: । रोगम् । अनीनशम: । अङ्गऽभेदम् । अशीशम: ॥१३.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(सम्) सम्यक्। स्वस्थानि (शीर्ष्णः) मस्तकस्य (कपालानि) तमिविशिविडि०। उ० १।११८। कपि चलने-कालन्, नलोपः। शिरोऽस्थीनि (हृदयस्य) (च) (यः) (विधुः) पॄभिदिव्यधि०। उ० १।२३। व्यध ताडने-कु। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। ताडनम् (उद्यन्) उद्गच्छन् (आदित्य) हे सूर्यवत्तेजस्विन् वैद्य (रश्मिभिः) किरणैर्यथा (शीर्ष्णः) मस्तकस्य (रोगम्) (अनीनशः) नाशितवानसि (अङ्गभेदम्) अङ्गानां विदारणम् (अशीशमः) शान्तीकृतवानसि ॥
इस भाष्य को एडिट करें