अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठआस॑: । ब॒लास॑: । भव॑तु । मूत्र॑म् । भ॒व॒तु॒ । आ॒मय॑त् । यक्ष्मा॑णाम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.१०॥
स्वर रहित मन्त्र
आसो बलासो भवतु मूत्रं भवत्वामयत्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठआस: । बलास: । भवतु । मूत्रम् । भवतु । आमयत् । यक्ष्माणाम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(आसः) असु क्षेपणे-घञ्। धनुः (बलासः) म० ८। श्लेष्मविकारः (भवतु) (मूत्रम्) अ० १।३।६। प्रस्रावः (आमयत्) अम पीडने, चुरादेः-शतृ। पीडयत् (यक्ष्माणाम्) राजरोगाणाम् (सर्वेषाम्) (विषम्) कष्टकरं प्रभावम् (निः) निःसार्य (अवोचम्) कथितवानस्मि (अहम्) वैद्यः (त्वत्) त्वत्सकाशात् ॥
इस भाष्य को एडिट करें