अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 19
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
ये अङ्गा॑नि म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठये । अङ्गा॑नि । म॒दय॑न्ति । यक्ष्मा॑स: । रो॒प॒णा: । तव॑ । यक्ष्मा॑णाम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.१९॥
स्वर रहित मन्त्र
ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठये । अङ्गानि । मदयन्ति । यक्ष्मास: । रोपणा: । तव । यक्ष्माणाम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(ये) (अङ्गानि) शरीरावयवान् (मदयन्ति) उन्मत्तानि कुर्वन्ति (यक्ष्मासः) असुगागमः। यक्ष्माः। क्षयरोगाः (रोपणाः) सुयुरुवृञो युच्। उ० २।७४। रुप विमोहने-युच्। व्याकुलीकराः। अन्यत् पूर्ववत्-म० १० ॥
इस भाष्य को एडिट करें